|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.301. अध्यायः 301
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तपःप्रशंसादिपरपराशरगीतनुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
पराशर उवाच। 12-301-0x(6448)(77470)
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु॥ 12-301-1(77471)
प्रायेण च गृहस्थस्य ममत्वं नाम जायते।
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः॥ 12-301-2(77472)
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै॥ 12-301-3(77473)
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः॥ 12-301-4(77474)
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्।
मोहजस्तारतिर्नाम समुपैति नराधिप॥ 12-301-5(77475)
कृतार्थ भोगिनं मत्वा सर्वो रतिपरायणः।
लाभं प्रात्यसुखादन्यं रतितो नानुपश्यति॥ 12-301-6(77476)
ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम्।
दुष्टार्थं चैव तस्येह जनस्यार्थं चिकीर्षति॥ 12-301-7(77477)
स जानत्रपि चाकार्यमर्थार्थं सेवते नरः।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते॥ 12-301-8(77478)
ततो दानेन संपन्नो रक्षन्नात्मपराजयम्।
करोति येन भोनी स्यामिति तस्माद्विनश्यति॥ 12-301-9(77479)
तद्यदि वुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम्।
अभिच्छतां शुभं कर्म नराणां त्यजतां सुखम्॥ 12-301-10(77480)
लोकायतननाशाच्च धननाशाच्च पार्थिव।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति॥ 12-301-11(77481)
निर्वेदादात्मसंबोधः संबोधादात्मदर्शनम्।
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति॥ 12-301-12(77482)
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति॥ 12-301-13(77483)
तपः सर्वगतं तात हीनस्यापि विधीयते।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम्॥ 12-301-14(77484)
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः।
क्वचित्क्वचिद्ब्रतपरो व्रतान्यास्थाय पार्थिव॥ 12-301-15(77485)
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः॥ 12-301-16(77486)
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः॥ 12-301-17(77487)
ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा॥ 12-301-18(77488)
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्॥ 12-301-19(77489)
कौशेयानि च वस्त्राणि शुभान्याभरणानि च।
वाहनासनपानानि तत्सर्वं तपसः फलम्॥ 12-301-20(77490)
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्॥ 12-301-21(77491)
शयनानि च मुख्यानि भोज्यानि विविधानि च।
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम्॥ 12-301-22(77492)
नाप्राप्यं तपसः किंचिन्त्रैलोक्येऽपि परंतप।
उपभोगपरित्यागः फलान्यकृतकर्मणाम्॥ 12-301-23(77493)
सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत्।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम॥ 12-301-24(77494)
असंतोषोऽसुखथायेति लोभादिन्द्रियविभ्रमः।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता॥ 12-301-25(77495)
नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत्॥ 12-301-26(77496)
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्॥ 12-301-27(77497)
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते।
प्राकाश्यं चैवं गच्छन्ति कृत्वा निष्कल्मषं तपः॥ 12-301-28(77498)
अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम्।
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम्॥ 12-301-29(77499)
धर्मे तपसि दाने च विचिकित्साऽस्य जायते।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते॥ 12-301-30(77500)
सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम्।
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः॥ 12-301-31(77501)
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता।
रसने दर्शने घ्राणे श्रवणे च विशांपते॥ 12-301-32(77502)
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः।
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम्॥ 12-301-33(77503)
ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः।
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते॥ 12-301-34(77504)
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः॥ 12-301-35(77505)
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्।
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम्॥ 12-301-36(77506)
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्।
तेषां नान्यदृते लोके तपसः कर्म विद्यते॥ 12-301-37(77507)
सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम्।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप॥ 12-301-38(77508)
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥ ॥ 12-301-39(77509)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाधिकत्रिशततमोऽध्यायः॥ 301॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-301-2 समाण्यं नरश्रेहेति ध. पाठः॥ 12-301-6 भोगिनं आत्मानमिति शेषः। रत्यर्थं च धनं त्यक्त्वा स वै रतिपरायण इति ध. पाठः॥ 12-301-7 पुष्ठार्थं चेह देहस्येति ध. पाठः॥ 12-301-10 तपसा सिद्धियुक्तानां शाश्वतं द्रहादर्शनम् इति थ. ध. पाठः॥ 12-301-12 संबोधाच्छास्रदर्शनमिति ध. पाठः॥ 12-301-14 तपः स्वर्गफलं तातेति थ. पाठः॥ स्वर्गमार्गप्रदर्शकमिति ट. थ. पाठः॥ 12-301-15 क्वचिद्द्वह्यपर इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|